________________
७६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सवदिः सर्वाः ।२।२।११९॥ हेत्वथैर्युक्तात् सवदिः 'सर्वा विभक्तयः' स्युः । को हेतुः, कं हेतुम्, केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः, कस्य हेतोः, कस्मिन् हेती वा याति ॥११९॥
असत्त्वारादर्थात् टा-ङसि-ङ्यम् ।२।२।१२०॥ असत्त्ववाचिनो दूरादिन्तिकार्याच 'टा-डसि-यमः' स्युः । गौणादिति निवृत्तम् । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद् वा वसति । एवं विप्रकृष्टेनेत्यादि r अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद् वा वसति, एवमभ्यासेनेत्यादि । असत्त्व इति किम् ? दूरोऽन्तिको वा पन्थाः ॥१२०॥
जात्याख्यायां नवैकोऽसंख्यो बहुवत् ।२।२।१२१॥ जातेराख्या- अभिधा तस्यामेकोऽर्थोऽसंख्यः- संख्याविशेषणरहितो 'बहुवद् वा' स्यात् । संपन्ना यवाः, संपन्नो यवः । जातीति किम् ? चैत्रः । आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः । असंख्य इति किम् ? एको व्रीहिः संपन्नः सुभिक्षं करोति ॥१२१॥
अविशेषणे द्वौ चाऽस्मदः ।२।२।१२२॥ अस्मदो द्वावेकश्वार्थो 'बहुवद् वा स्यात् । अविशेषणे- न चेत् तस्य विशेषणं स्यात् । आवां ब्रूवः, वयं ब्रूमः । अहं ब्रवीमि, वयं ब्रूमः । अविशेषण इति किम् ? आवां गायी ब्रूवः । अहं चैत्रो ब्रवीमि ॥१२२॥
फल्गुनी-प्रोष्ठपदस्य भे ।२।२।१२३॥ फल्गुनी-प्रोष्ठपदयोर्भे- नक्षत्रे वर्तमानयोावY 'बहुवद् वा' स्याताम् । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । म इति किम् ? फल्गुनीषु जाते फल्गुन्यौ कन्ये ॥१२३॥
गुरावेकश्च ।२।२।१२४॥