________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
केशेषु चमरीं हन्ति, सीम्नि पुष्कलको हतः ||१|| ” तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ||१००||
७३
अप्रत्यादावसाधुना ॥ २२॥१०१॥
प्रत्यादेरप्रयोगे, असाधुशब्देन युक्तात् 'सप्तमी' स्यात्, असाधुर्मैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि वा ॥१०१॥ साधुना | २|२|१०२॥
अप्रत्यादौ साधुशब्देन युक्तात् 'सप्तमी' स्यात्, साधुमैत्रो मातरि । अप्रत्यादावित्येव - साघुर्मातरं प्रति परि अनु अभि वा ||१०२ ||
निपुणेन चाऽर्चायाम् | २|२|१०३॥
निपुण - साधुशब्दाभ्यां युक्तादप्रत्यादी 'सप्तमी' स्यात्, अर्चायाम् । मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? निपुणो मैत्रो मातुः, मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव निपुणो मैत्रो मातरं प्रति परि अनु अभि वा ॥१०३॥
-
स्वेशेऽधिना | २|२|१०४ ॥
स्वे - ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् 'सप्तमी' स्यात् । अधिमगधेषु श्रेणिकः, अधिश्रेणिके मगधाः ||१०४ || उपेनाऽधिकिनि । २।२।१०५ ॥
उपेन युक्तादधिकिवाचिनः 'सप्तमी' स्यात् । उपखार्यां द्रोणः ||१०५ ॥ यद्भावो भावलक्षणम् ।२।२।१०६॥
-
भावः क्रिया, यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिनः 'सप्तमी' स्यात् । गोषु दुह्यमानासु गतः ||१०६॥
गते गम्येऽध्वनोऽन्तेनैकार्य्यं वा |२| २|१०७ ॥