________________
७२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि 'षष्ठी न' स्यात् । ग्रामं गमी आगामी वा, शतं दायी । एष्यदृणेति किम् ? साधु दायी वित्तस्य ॥१४॥
सप्तम्यधिकरणे ।।२।९५॥ अधिकरणे एक-द्वि-बही यथासंख्यं ड्योस्-सुबपा 'सप्तमी' स्यात् । कटे आस्ते, दिवि देवाः, तिलेषु तैलम् ॥१५॥
नवा सुजथैः काले ।२।२।९६॥ सुचोऽर्थो वारो येषां तप्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् 'सप्तमी वा' स्यात् । द्विरनि अह्नो वा भुक्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते ॥१६॥
कुशला-ऽऽयुक्तेनाऽऽसेवायाम् ।२।२।९७॥ आभ्यां युक्तादाधारवाचिनः 'सप्तमी वा' स्यात्, आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा, आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, न तु करोति; आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः ॥९७।।
स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।२।२।९८॥ एभिर्युक्तात् 'सप्तमी वा' स्यात् । गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ॥९॥
व्याप्ये तेनः ।।२।९९॥ क्ताद् य इन् तदन्तस्य व्याप्ये 'सप्तमी' नित्यं स्यात् । अधीतमनेन- अधीती व्याकरणे, इष्टी यज्ञे । तेनेति किम् ? कृतपूर्वी कटम् ॥१९॥
तयुक्ते हेतौ ।२।२।१००॥ तेन व्याप्येन युक्ते हेतौ वर्तमानात् “सप्तमी' स्यात् ।
"चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् ।।