________________
७४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
कुतश्चिदवधेर्विवक्षितस्याऽध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याध्वनोध्ववाचिनोऽध्वन एवाऽन्तेन- अन्तवाचिना सहैकार्थ्यम्- 'सामानाधिकरण्यं वा' स्यात्, तद्विभक्तिस्तस्मात् स्यादित्यर्थः, गते गये - गतशब्देऽप्रयुज्यमाने । गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्षु वा योजनेषु । गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति किम् ? गतप्रयोगे मा भूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य नश्चतुर्षु गव्यूतेषु भोजनम् ||१०७ ॥ षष्ठी वाऽनादरे | २|२|१०८ ॥
यद्भावो भावलक्षणं तद्वृत्तेरनादरे 'षष्ठी वा' स्यात् । रुदतो लोकस्य रुदति लोके वा प्राव्राजीत् ॥१०८॥
सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९ ॥
जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्द्धारणम्, तस्मिन् गम्ये ' षष्ठी - सप्तम्यौ' स्याताम् अविभागे निधार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने । क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु वा बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः ॥१०९ ॥ क्रियामध्येऽध्व-काले पञ्चमी च |२| २|११०॥
क्रिययोर्मध्ये यावध्व - कालौ तद्वाचिभ्यां पञ्चमी - सप्तम्यौ' स्याताम् । इह - स्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनिर्द्वयहात् द्वयहे वा भोक्ता ॥११०॥
अधिकेन भूयसस्ते |२| २|१११॥
अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते- 'सप्तमी - पञ्चम्यी' स्याताम् । अधिको द्रोणः खाय खार्या वा ||999 |