________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् ॥५९॥
__ श्लाघ-हनु-स्था-शपा प्रयोज्ये ।२।२।६०॥ श्लाघादिभिर्धातुभिर्युक्ताद् 'ज्ञाप्ये प्रयोज्ये वर्तमानाचतुर्थी' स्यात् । मैत्राय श्लाघते, हनुते, तिष्ठते, शपते वा । प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते, आत्मनो मा भूत् ॥६०॥
तुमोऽर्थे भाववचनात् ।२।२।६१॥ क्रियायां क्रियायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयस्तदन्तात् स्वार्थे 'चतुर्थी' स्यात् । पाकाय इज्यायै वा व्रजति तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ॥६१॥
गम्यस्याऽऽप्ये ।२।२।६२॥ यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्यः, 'गम्यस्य तुमो व्याप्ये वर्तमानाचतुर्थी, स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तु याति ॥६२॥
गतेर्नवाऽनाप्ते ।२।२।६३॥ गतिः- पादविहरणम्, तस्या आप्येऽनाप्ते वर्तमानाचतुर्थी वा स्यात् । ग्राम ग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्-पन्यानं याति ॥६३॥
मन्यस्याऽनावादिभ्योऽतिकुत्सने २२१६४॥ अतीव कुत्स्यते येन तदतिकुत्सनम, तस्मिन् मन्यतेाप्ये वर्तमानानावादिवर्जाचतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावं, अन्नं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? न त्वा रलं मन्ये ।