________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
संप्रदाने वर्तमानादेक-द्वि-बही यथासंख्यं डे-भ्याम्-भ्यस्लक्षणा 'चतुर्थी' स्यात् । द्विजाय गां दत्ते, पत्ये शेते ॥५३॥
तादर्थे ।२।२।५४॥ तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये 'चतुर्थी' स्यात् । यूपाय दारु, रन्धनाय स्थाली ॥५४॥
रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमणेषु ।२।२१५५॥ रुच्यथैः कृप्यर्थैर्धारिणा च योगे यथासंख्यं प्रेय-विकारोत्तमर्णवृत्ते-'श्चतुर्थी' स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति ।
प्रत्याङः (वार्थिनि ।२।२॥५६॥ प्रत्याङ्मयां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्तमानाचतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति, आशृणोति वा ॥५६॥
प्रत्यनोर्गणाऽऽख्यातरि २१२१५७॥ प्रत्यनुभ्यां परेण गृणा योगे 'आख्यातवृत्तेश्चतुर्थी' स्यात् । गुरवे प्रतिगृणाति अनुगृणाति वा ॥५॥
यदीक्ष्ये राधीक्षी ।।२।५८॥ वीक्ष्यम्-विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि, यस्य वीक्ष्ये राधीक्षी वर्तेते तवृत्तेश्चतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा, ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८||
उत्पातेन ज्ञाप्ये २।२।५९॥ उत्पात आकस्मिकं निमित्तम्, तेन 'ज्ञाप्ये वर्तमानाचतुर्थी' स्यात् ।
वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्मिक्षाय सिता भवेत् ॥१॥