________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
६७
करणाऽऽश्रयणं किम् ? न त्वा तृणाय मन्ये । युष्मदो मा भूत् । अतीति किम् ? त्वां तृणं मन्ये ।।६४॥
हित-सुखाभ्याम् ।।२।६५॥ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ॥६५॥
तद्भद्रा-ऽऽयुष्य-क्षेमा-ऽर्थाऽर्थनाऽऽशिषि ।२।२।६६॥ तदिति हित-सुखयोः परामर्शः, हिताद्यथैर्युक्तादाऽऽशिषि गम्यायाम् 'चतुर्थी वा' स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा। आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् कुशलं निरामयं वा श्रीसंघाय श्रीसङ्घस्य वा । अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥६६॥
परिक्रयणे ।२२६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन् वर्तमानाचतुर्थी वा स्यात् । शताय शतेन वा परिक्रीतः ॥६७।।
शक्तार्थ-वषड्-नमः-स्वस्ति-स्वाहा-स्वधाभिः ।।२६८॥ शक्तार्वषडादिभिश्च युक्ताचतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ॥६॥
पञ्चम्यपादाने ।२।२।६९॥ अपादाने एक-द्वि-बही यथासंख्यं उसि-भ्याम्-भ्यस्लक्षणा ‘पञ्चमी' स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति ॥६९॥
आङाऽवधौ ।२।२७०॥