________________
६०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
रात्रावुद्देशोऽधीतः ॥२३॥
साधकतमं करणम् ।२।२।२४॥ क्रियायां प्रकृष्टोपकारकम् ‘करणम् 'स्यात् । दानेन भोगानाप्नोति ॥२४॥
कर्माभिप्रेयः संप्रदानम् ।२।२।२५॥ कर्मणा-व्याप्येन क्रियया वा यमभिप्रेयते स 'सम्प्रदानम्' स्यात् । देवाय बलिं दत्ते, राजे कार्यमाचष्टे, पत्ये शेते ॥२५॥
स्पृहेाप्यं वा ।२।२।२६॥ स्पृहेाप्यम् ‘वा संप्रदानम्' स्यात् । पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥२६॥
क्रुद्-द्रुहेा-ऽसूयार्थैर्य प्रति कोपः ।२।२।२७॥ क्रुधाद्यर्थैर्धातुभिर्योगे यं प्रति कोपस्तत् ‘सम्प्रदानम्' स्यात् । मैत्राय क्रुध्यति, द्रुह्यति, ईर्ण्यति, असूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । कोप इति किम् ? शिष्यस्य कुप्यति विनयार्थम् ॥२७॥
नोपसर्गात् क्रुद्-द्रुहा ।२।२।२८॥ सोपसर्गाभ्यां क्रुधि-द्रुहिभ्यां योगे यं प्रति कोपस्तत् 'संप्रदानं न' स्यात् । मैत्रमभिक्रुध्यति, अभिद्रुह्यति । उपसर्गादिति किम् ? मैत्राय क्रुध्यति, द्रुह्यति ।।२८||
अपायेऽवधिरपादानम् ।२।२।२९॥ अपाये-विश्लेषे योऽवधिस्तद् 'अपादानम्' स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, अधर्माज्जुगुप्सते विरमति वा, धर्मात् प्रमाधति, चौरेभ्यस्त्रायते, अध्ययनात् पराजयते, यवेभ्यो गां रक्षति, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः श्रीशत्रुअयः षड् योजनानि, कार्तिक्या आग्रहायणी मासे, चैत्रान्मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य आयतराः ॥२९॥