________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
६१
क्रियाऽऽश्रयस्याऽऽधारोऽधिकरणम् | २|२|३०||
क्रियाऽऽश्रयस्य कर्तुः कर्मणो वाऽऽधारो -'ऽधिकरणम्' स्यात् । कटे आस्ते, स्थाल्यां तण्डुलान् पचति ॥३०॥
नाम्नः प्रथमैक-द्वि- बहौ ।२।२१३१॥
एक-द्वि-बहावर्थमात्रे वर्त्तमानान्नाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा 'प्रथमा' स्यात् । डित्यः, गौः, शुकुः, कारकः, दण्डी ||३१||
आमन्त्र्ये ।२।२।३२॥
आमन्त्र्यार्थवृत्तेर्नाम्नः 'प्रथमा' स्यात् । हे देव ! । आमन्त्र्य इति किम् ? राजा भव ||३२|
गौणात्-समया-निकषा-हा-धिगन्तरा - ऽन्तरेणा-ऽति- येनतेनैर्द्वितीया |२| २|३३॥
समयादिभिर्युक्ताद् गौणान्नाम्न एक-द्वि-बही यथासंख्यममौ - शसिति 'द्वितीया' स्यात् । समया ग्रामम् । निकषा गिरिं नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण वा निषधं निलं च विदेहाः । अन्तरेण धर्मं सुखं न स्यात् । अतिवृद्धं कुरून् महद्बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीतः ॥ ३३॥ द्वित्वेऽधोऽप्युपरिभिः | २|२|३४॥
द्विरुक्तैरेभिर्युक्तानाम्नो 'द्वितीया' स्यात् । अधोऽधो ग्रामम्, अध्यधि ग्रामम् उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधो गृहस्य ||३४|| सर्वोभया - ऽभि परिणा तसा | २|२|३५||
सर्वादिभिस्तसन्तैर्युक्तानाम्नो 'द्वितीया' स्यात् । सर्वतः उभयतः, अभितः, परितो वा ग्रामं वनानि ॥ ३५ ॥
लक्षण - वीपस्येत्थम्भूतेष्वभिना । २ । २३६ ॥