________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
उपसर्गादिवः ।२।२।१७॥ उपसर्गात् पास्य दिवो व्याप्यौ विनिमेय- धूतपणौ 'वा कर्म' स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ॥१७॥
न ।२।२।१८॥ अनुपसर्गस्य दिवो व्याप्यौ विनिमेय-धूतपणौ 'कर्म न' स्याताम् । शतस्य दीव्यति ॥१८॥
करणं च ।२।२।१९॥ दिवः करणम् 'कर्म करणं च युगपत्' स्यात् । अक्षान् दीव्यति, अक्षैर्दीव्यति, अक्षैर्देवयते मैत्रश्चैत्रेण ॥१९॥
अधेः शीङ्-स्था-ऽऽस आधारः ।२।२।२०॥ अधेः संबद्धानां शीङ्-स्था-ऽऽसामाधारः 'कर्म' स्यात् । ग्राममधिशेते, अधितिष्ठति, अध्यास्ते वा ॥२०॥
उपान्वध्यावसः ।२२।२१॥ उपादिविशिष्टस्य वसतेराधारः 'कर्म' स्यात् । ग्राममुपवसति, अनुवसति, अधिवसति, आवसति वा ॥२१॥
वाऽभिनिविशः ।२।२।२२॥ अभि-निम्यामुपसृष्टस्य विशेराधारः 'कर्म वा' स्यात् । ग्राममभिनिविशते, कल्याणे अभिनिविशते ।।२२।।
कालाध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम् ।२।२।२३॥ कालादिराधारोऽकर्मणां धातूनां योगे कर्माऽकर्म च युगपद् वा स्यात् । मासमास्ते, क्रोशं शेते, गोदोहमास्ते, कुरूनास्ते । पक्षे-मासे, आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ?