________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
स्मृत्यर्थ दयेशः | २|२॥११॥
स्मृत्यर्थानां दयेशोश्च व्याप्यम् 'कर्म वा' स्यात् । मातुः स्मरति, मातरं स्मरति; मातुः स्मर्यते, माता स्मर्यते; सर्पिषः सर्पिर्वा लोकानीष्टे ||११||
दयते; लोकानामीष्टे,
५८
कृगः प्रतियत्ने । २।२।१२॥
पुनर्यलः प्रतियलस्तद्वृत्तेः कृगो व्याप्यम् 'कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ॥ १२॥
रुजाऽर्थस्याऽज्वरि - सन्तापेभवि कर्त्तरि ।२।२।१३॥
रुजा पीडा, तदर्थस्य ज्वरि सन्तापिवर्जस्य धातोर्व्याप्यम् 'कर्म वा' स्यात्, भावश्चेदुजायाः कर्त्ता । चोरस्य चीरं वा रुजति रोगः । अज्वरिसन्तापेरिति किम् ? आद्यूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा ॥ १३ ॥ जास-नाट - क्राथ-पिषो हिंसायाम् | २|२|१४||
हिंसार्थानामेषां व्याप्यम् 'कर्म वा' स्यात् । चौरस्य चीरं वोज्जासयति, चौरस्य । चौरं वोन्नाटयति, चौरस्य चौरं वोत्क्राथयति, चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनाज्जासयति ||१४||
नि-प्रेभ्यो घ्नः ।२।२।१५॥
समस्त-व्यस्त - विपर्यस्ताभ्यां निप्राभ्यां परस्य हिंसार्थस्य हन्तेर्व्याप्यम् 'कर्म वा' स्यात् । चौरस्य चौरं वा निप्रहन्ति । हिंसायामित्येव - रागादीन्निहन्ति || विनिमेय द्यूतपणं पण-व्यवगोः ।२।२।१६ ॥
·
विनिमेयः क्रेय - विक्रेयोऽर्थः द्यूतपणो द्यूतजेयम्, तौ पणव्यवह्रो व्र्व्याप्यौ 'वा कर्म' स्याताम् । शतस्य शतं वा पणायति, दशानां दश वा व्यवहरति । विनिमेय - द्यूतपणमिति किम् ? साधून् पणायति ||१६||