________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
५७
नित्याकर्मणाञ्च नीखाद्यदिवाशब्दायक्रन्दिवर्जानां धातूनामणिक्कर्त्ता स णौ सति 'कर्म' स्यात् । गमयप्ति चैत्रं ग्रामम्, बोधयति शिष्यं धर्मम्, भोजयति बटुमोदनम्, जल्पयति मैत्रं द्रव्यम्, अध्यापयति बटुं वेदम्, शाययति मैत्रं चैत्रः । गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्रः । न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन, हवाययति चैत्रं मैत्रेण, शब्दाययति बटुं मैत्रेण, क्रन्दयति मैत्रं चैत्रेण ॥ ५ ॥ भक्षेहिंसायाम् | २|२|६॥
भक्षेहिंसार्थस्यैवाणिक्कर्त्ता णौ 'कर्म' स्यात् । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना ||६||
वहेः प्रवेयः | २|२|७॥
वहेरणिक्कर्त्ता प्रवेयो णौ 'कर्म' स्यात् । वाहयति भारं बलीवर्दान् मैत्रः । प्रवेय इिति किम् ? वाहयति भारं मैत्रेण ॥७॥ ह-क्रोर्नवा | २|२|८॥
ह-क्रोरणिक्कर्ता णी 'कर्म वा' स्यात् । विहारयति देशं गुरुं गुरुणा वा, आहारयत्योदनं बालं बालेन वा, कारयति कटं चैत्रं चैत्रेण वा ॥८॥
दृश्यभिवदोरात्मने । २।२।९ ॥
दृश्यभिवदोरात्मनेपदविषयेऽणिक्कर्त्ता णौ 'कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मन इति किम् ? दर्शयति रूपतर्क रूपम् ||९||
नाथः | २|२|१०॥
आत्मनेपदविषयस्य नाथो व्याप्यम् 'कर्म वा' स्यात् । सर्पिषो नाथते, सर्पिर्नाथते । आत्मन इत्येव - पुत्रमुपनाथति पाठाय ||१०||