________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
लघुवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः ।।२।१॥ प्रावृड्जातेति हे भूपा ! मा स्म त्यजत काननम् । हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः ॥५॥
------xox -----
(द्वितीयः पादः)
क्रियाहेतुः कारकम् ।२।२।१॥ क्रियाया निमित्तं कादि 'कारकम्' स्यात् । 'करोतीति कारकम्' इति । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न स्यात् ॥१॥
स्वतन्त्रः कर्ता ।२।२॥२॥ क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स 'कर्ता' स्यात् । मैत्रेण कृतः ॥२॥
कर्तुाप्यं कर्म ।२।२॥३॥ का क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं 'व्याप्यं कर्म च' स्यात् । तत् त्रेधा - निर्व] विकार्यं प्राप्यञ्च । कटं करोति, काष्ठं दहति, ग्रामं याति ॥३॥
वाऽकर्मणामणिकर्ता णौ ।२।२।४॥ अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्ता स णिगि सति 'कर्म वा' स्यात् । पचति चैत्रः, पाचयति चैत्रं चत्रेण वा ॥४॥ गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याऽकर्मणामनी
खाद्यदि-द्वा-शब्दाय-क्रन्दाम् ।२।२।५॥ गतिर्देशान्तरप्राप्तिः, शब्दः कर्म- क्रिया व्याप्यञ्च येषां ते शब्दकर्माणः, नित्यं न विद्यते कर्म येषां ते नित्याकर्माणः, गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां