________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
न व - मन्तसंयोगात् । २।१।१११॥
वान्तान्मान्ताच्च संयोगात्परस्या- ' ऽनोऽस्य लुग् न' स्यात् । पर्वणा, कर्मणी ॥ हनो नो घ्नः । २।१।११२॥
'हन्तेर्हनो घ्नः' स्यात् । भ्रूणघ्नी, घ्नन्ति । न इति किम् ? वृत्रहणी ॥ ११२ ॥ लुगस्यादेत्यपदे । २।१।११३॥
अपदादावकारे एकारे च परे - 'ऽस्य लुक् स्यात् । सः, पचन्ति पचे । अपद इति किम् ? दण्डाग्रम् ॥११३॥
डित्यन्त्यस्वरादेः | २|१|११४॥
स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे 'लुक्' स्यात् । मुनी, साधी, पितुः ॥ ११४॥
५५
अवर्णादश्नोऽन्तो वाऽतुरीड्योः | २|१|११५ ॥
श्नावर्णादवर्णात् परस्याऽतुः स्थाने - 'ऽन्तो वा' स्यात्, ई-ड्योः । तुदन्ती, तुदती कुले स्त्री वा । एवम् भान्ती, भाती । अवर्णादिति किम् ? अदती । अम्न इति किम् ? लुनती ॥ ११५ ॥
श्य - शवः | २|१|११६॥
श्याच्छवश्च परस्याऽतुरीड्योः परयोरन्त इत्यादेशः स्यात् । दीव्यन्ती, पचन्ती । दिव औः सौ | २|१|११७॥
दिवः सौ परे 'औ' स्यात् । द्यौः ||११७||
उः पदान्तेऽनूत् । २।१।११८ ॥
पदान्तस्य दिव ‘उ:' स्यात्, अनूत् - स तु दीर्घो न स्यात् । द्युभ्याम्, द्युषु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ॥ ११८ ॥
इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन