________________
५४
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
अच्च प्राग दीर्घश्च ।२।११०४॥ अणिक्यघुटि यस्वरादी प्रत्यये-'ऽच् चः' स्यात्, प्राक्स्वरस्य दीर्घः । प्राच्यः, दधीचा । अणिक्यघुटित्येव- दध्ययति, दध्यच्यति, दध्यञ्चः । अचिति किम् ? नि मा भूत्- साध्वञ्चा ।।१०४॥
क्वसुष्मतौ च ।२।११०५॥ अणिक्यघुटि य-स्वरे मतौ च प्रत्यये 'क्वस् उष्' स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अणिक्यघुटीत्येव- विद्वयति, विद्वस्यति, विद्वांसः ॥१०५॥
श्वन-युवन-मघोनो डीस्यायघुट्स्वरे व उः ।२।१1१०६॥ यां स्याद्यघुट्स्वरे च श्वनादीनाम् ‘व उ:' स्यात् । शुनी, शुनः । अतियूनी, यूनः । मघोनी, मघोनः । ङीस्याद्यघुटस्वर इति किम् ? शौवनम्, यौवनम्, माघवनम् ।२।१।१०६॥
लुगाऽऽतोऽनापः ।२।११०७॥ आपवर्जस्याऽऽतो डीस्याधघुट्स्वरे 'लुक् स्यात् । कीलालपः । हाहे देहि । अनाप इति किम् ? शालाः ॥१०७॥
अनोऽस्य ।२।११०८॥ डीस्याधघुट्स्वरे-'नोऽस्य लुक्' स्यात् । राज्ञी, राज्ञः ॥१०८।।
ईडौ वा ।२।११०९॥ ईकारे डौ च परे– 'ऽनोऽस्य लुग्वा' स्यात् । साम्नी, सामनी । राज्ञि, राजनि ।।१०९॥
षादि-हन्-घृतराज्ञोऽणि ।२।११११०॥ षादेरनो हनो धृतराज्ञश्चातोऽणि प्रत्यये लुक् स्यात् । औक्षणः, ताक्ष्णः, भ्रीणनः, धार्तराज्ञः ॥११०॥