________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
५३
राजन्वान् सुराज्ञि ।२।१९८॥ सुराजकेऽर्थे 'राजन्वान्' मतौ निपात्यते । राजन्वान् देशः, राजन्वत्यः प्रजाः ॥९८॥
नोर्यादिभ्यः ।२।१९९॥ ऊादिभ्यो 'मतोर्मो वो' न स्यात् । ऊर्मिमान्, दल्मिमान् इत्यादि ॥१९॥
मास-निशाऽऽसनस्य शसादौ लुग्वा ।२।११००॥ शसादी स्यादावेषाम् 'लुग्वा' स्यात् । मासः, मासान् । निशः निशाः । आसनि, आसने, आस्नि ।।१००॥
दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पनस्हृदसन्यूषन्नुदनदोषन्यकञ्छकन् वा ।२।११०१॥ शसादी स्यादौ दन्तादीनां यथासंख्यम् 'दत्-इत्यादयो वा' स्युः । दतः, दन्तान् । पदः, पादान् । नसा, नासिकया । हृदि, हृदये । अस्ना, असृजा । यूष्णा, यूषेण । उना, उदकेन । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ।।१०१॥
य-स्वरे पादः पदणि-क्य-घुटि ।२।११०२॥ णि क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये ‘पादन्तस्य पद्' स्यात् । वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः विपि पाद्- पदी कुले । य स्वर इति किम् ? द्विपाद्भ्याम् । अणिक्यघुटीति किम् ? पादयति । व्याघ्रपाद्यति, द्विपादौ ॥१०२॥
उदच उदीच ।२।११०३॥ अणिक्यघुटि यस्वरे 'उदच उदीच्' स्यात् । उदीच्यः, उदीची । अणिक्यघुटित्येव- उदयति, उदच्यति, उदञ्चः । उदच इति किम् ? नि मा भूत्उदञ्चा, उदञ्चे ॥१०३॥