________________
५०
श्रीसिदहेमचन्द्रशब्दानुशासनम्
धत्तः, धत्यः, धत्से, धद्ध्वे । तयोश्चेति किम् ? दध्वः । चतुर्थान्तस्येत्येवदधाति ॥७॥
अधश्चतुर्थात् तथोधः ।२।१७९॥ चतुर्थात्परयोरूिपवर्जाद्धातोर्विहितयो- 'स्तयोर्धः' स्यात् । अदुग्ध, अदुग्धाः । अलब्ध, अलब्धाः । अध इति किम् ? धत्तः, धत्यः । विहितविशेषणं किम् ? ज्ञानमुत्त्वम् ॥७९॥
नाम्यन्तात् परोक्षायतन्याशिषो घो टः ।२।११८०॥ रान्तानाम्यन्ताच धातोः परासां परोक्षाधतन्याशिषाम् 'धो ढः' स्यात् । तुष्टुवे अतीत्वम्, ती दवम्, अदिवम् चेषीदवम् । नाम्यन्तादिति किम् ? अपग्ध्वम्, आसिध्वम् ॥८॥
हान्तस्थाजीभ्यां वा ।२।११८१॥ हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षायतन्याशिषाम् 'धो द् वा स्यात् । अग्राहिद्वम् अग्राहिध्वम्, ग्राहिषीद्वम्, ग्राहिषीध्वम् । अनायिद्वम्, अनायिध्वम् । नायिषीद्वम्, नायिषीध्वम् । अकारिद्वम्, अकारिध्वम् । अलाविदवम्, अलाविध्वम् । जगृहिदवे, जगृहिध्वे । आयिद्वम्, आयिध्वम् । हान्तस्थादिति किम् ? घानिषीध्वम्, आसिषीध्वम् ।।८।।
हो धुद-पदान्ते ।२।११८२॥ धुटि प्रत्यये पदान्ते च 'हो द्' स्यात् । लेटा, मधुलिट्, गुडलिण्मान् । धुट्पदान्त इति किम् ? मधुलिहौ ॥२॥
भ्वादेददिर्घः ।२।१1८३॥ भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये परे पदान्ते च 'घः' स्यात् । दोग्धा, धोक्ष्यति, अधोक्, गोधुक् । स्वादेरिति किम् ? दामलिट् ॥३॥
मुह-छह-स्नुह-स्निहो वा ।२।१८४॥