________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एषां हो धुटि प्रत्यये पदान्ते च 'घ' वा स्यात् । मोग्धा, मोढा; उन्मुक्, उन्मुट्, । द्रोग्धा, द्रोढा; मित्रधुक्, मित्रध्रुट् । स्नोग्धा, स्नोढा; उत्स्नुक्, उत्स्नुट् । स्नग्धा, स्नेढा; चेलस्निक्, चेलस्निट् ।।८४।।
नहाहोर्घ-तौ ।२।११८५॥ नहेबूंस्थानाऽऽहश्च धातो) धुटि प्रत्यये पदान्ते च यथासंख्यम् 'ध-ती' स्याताम् । नद्धा, उपानद्भ्याम्, आत्य ॥८५॥
च-जः क-गम् ।२।११८६॥ धुटि प्रत्यये पदान्ते च च-जोः 'क-गौ' स्याताम् । वक्ता, वाक्, त्यक्ता, अर्द्धभाक् ॥८६॥ यज-सृज-मृज-राज-भ्राज-भस्ज-व्रस्व-पखिाजः
शः षः ।२१११८७॥ यजादीनां धातूनां च-जोः शस्य च धुटि प्रत्यये पदान्ते च 'षः' स्यात् । यष्टा, देवेट्; प्रथा, तीर्थसृद; मार्श, कंसपरिमृद्; राष्टिः, सम्राट् भ्राष्टिः, विप्रा भ्रष्टा, धानाभृट् व्रष्टा, मूलवृ; परिवाद; लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचच्छिोऽपि धातोरेव स्यात्, इह मा भूत्- निज्म्याम् । चज इत्येव- वृक्षवृश्चमाचष्टे- वृक्षव् ॥८७॥
___ संयोगस्यादौ स्कोर्लुक् ।२।११८८॥ धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः 'स्कोर्राक्' स्यात् । लग्नः, साधुलक्; वृक्णः, मूलवृद्ः तष्टः, काष्ठतट् ॥८॥
पदस्य ।२।११८९॥ पदस्य 'संयोगान्तस्य लुक्' स्यात । पुमान, पुंभिः, महान् । पदस्येति किम् ? स्कन्वा ।।८९॥