________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
नशः पदान्ते 'ग् वा' स्यात् । जीवन, जीवनड् ॥७०॥ युजञ्च - क्रुञ्चो नो ङः ॥२३१॥७१॥
४९
एषां नस्य पदान्ते 'ड्' स्यात् । युङ्, प्राङ्, क्रुड् ॥७१॥ सो रुः । २।१।७२ ॥
पदान्ते 'सो रु' स्यात् । आशीः, वायुः ॥ ७२ ॥ सजुषः | २|१|७३॥
पदान्ते 'सजुषो रुः' स्यात् । सजू, सजूर्वत् ॥७३॥ अहूनः । २।१।७४ |
अह्नः पदान्ते 'रुः' स्यात् । हे दीर्घाहो निदाघ ! दीर्घाहा निदाघः ||७४ || रो लुप्यरि | २|१|७५ ॥
अरेफे परे पदान्ते अह्नो लुपि सत्याम् 'र:' स्यात् । अहरधीते, अहर्दत्ते । लुपीति किम् ? हे दीर्घाहोऽत्र । अरीति किम् ? अहोरूपम् ||७५|| घुटस्तृतीयः | २|१|७६ ॥
पदान्ते धुटां तृतीयः स्यात् । वाग्, वाग्भिः, अभिः ॥७६॥ ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः
स्वोश्च प्रत्यये | २|१ ॥७७॥
।
ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य 'धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात्, पदान्ते सादी ध्वादी च प्रत्यये । पर्णघुट् तुण्डिममाचक्षाण:- तुण्डिप् । एवं गर्द्धपू, धर्मभुत्, निघोक्ष्यते, न्यघूवम्, धोक्ष्यते, अधुग्ध्वम्, भोत्स्यते - अभुद्ध्वम् । गडदबादेरिति किम् ? अजअप् । एकस्वरस्येति किम् ? दामलिट् ॥७७॥ धागस्त- थोश्च | २|११७८॥ धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथोः सध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात् ।