________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये | २|१|५० ॥
धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यम्- 'इयुवी' स्याताम् । नियौ, लुवी, अधीयते, लुलुवुः । प्रत्यये इति किम् ? न्यर्थः त्वर्थः । नयनम्, नायक इत्यादौ तु परत्वाद् गुण- वृद्धी ॥५०॥
•
४६
इणः | २|9|५१ ॥
"
इणो धातोः स्वरादौ प्रत्यये परे 'इय्' स्यात् । यापवादः । ईयतुः ईयुः ॥५१॥ संयोगात् । २।१।५२ ॥
धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे 'इयुवी' स्याताम् । यवक्रियौ, कटप्रुवी, शिश्रियः ॥५२॥
भ्रू -श्नोः ।२।१।५३॥
भ्रू - नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे 'उव्' स्यात् । भ्रुवौ आप्नुवन्ति । संयोगादित्येव - चिन्वन्ति ॥ ५३ ॥
स्त्रियाः | २|१|५४॥
स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे 'इय्' स्यात् । स्त्रियौ । अतिस्त्रियी ॥ ५४ ॥ वाऽम् - शसि | २|१|५५॥
स्त्रिया इवर्णस्याऽम् - शसोः परयोरिय् वा स्यात् । स्त्रियं स्त्रीम् स्त्रियः, स्त्रीः ॥ ५५ ॥
योऽनेकस्वरस्य | २|१|५६ ॥
अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे 'यः' स्यात् । चिच्युः, निन्युः । पतिमिच्छति - पत्यि ॥५६॥
स्यादौ वः | २|१|५७॥
अनेकस्वरस्य धातोरुवर्णस्य स्वरादी स्यादौ परे 'वः' स्यात् । वसुमिच्छन्ती