________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
वस्वी । स्यादाविति किम् ? लुलुवुः ॥५७।।
विवृत्तेरसुधियस्तौ ।२।१।५८॥ क्विबन्तेनैव या वृत्तिः- समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ-'य् व्' इत्येतौ स्याताम् । उन्न्यौ, ग्रामण्यौ, सुल्वः, खलप्वः । स्विबिति किम् ? परमौ नियौ- परमनियौ । वृत्तेरिति किम् ? नियौ कुलस्य । असुधिय इति किम्- सुधियः ॥५८॥
दृन-पुन-वर्षा-कारैर्भुवः ।२।१।५९॥ दृनादिभिः सह या विवृत्तिस्तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादी स्यादौ परे 'वः' स्यात् । दृनुम्वौ, पुनर्वी, वर्षाम्वः, कारम्वः । दृनादिभिरिति किम् ? प्रतिभुवौ ॥५९॥
ण-पमसत्परे स्यादिविधौ च ।२।११६०॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये ‘णत्वं षत्वं चाऽसद्-' असिद्धं स्यात्, एतत्सूत्रनिर्दिष्टयोश्च ण-षयोः परे षे णोऽसन् । पूष्णः, तक्ष्णः, पिपठीः, अर्वाणी, सपीषि । असत्पर इत्यधिकारो "रात्सः" (२।१।९०) इति यावत् । स्यादिविधौ चेति तु “नोादिभ्यः" (२।१।९९) इति ॥६०॥
क्तादेशोऽपि ।२।१।६१॥ केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिंश्च स्यादिविधावसन् स्यात् । क्षामिमान्, लून्युः । अषीति किम् ? वृक्णः ॥६१॥
ष-ढोः कस्सि ।२।११६२॥ से परे 'ष-ढोः कः' स्यात् । पेक्ष्यति, लेक्ष्यति ॥२॥
भ्वादे मिनो दीर्घो ऊर्त्याने ।२।१।६३॥