________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् काभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । “अनग्" इति वक्ष्यमाणादिह साक एव विधिः ॥३५॥
अनक् ।२।१॥३६॥ त्यदादेर्व्यञ्जनादौ स्यादौ परे ऽग्वर्ज इदम् अः स्यात् । आभ्याम्, आभिः, एषु, आसु । अनगिति किम् ? इमकाभ्याम् । त्यदामित्येव- अतीदम्भ्याम् ॥३६॥
दौस्यनः ।२।१३७॥ त्यदां टायामोसि च परे 'ऽनक इदमोऽनः स्यात् । अनेन, अनया, अनयोः, अनयोः । त्यदामित्येव- प्रियेदमा । अनक इत्येव- इमकेन ॥३७॥
अयमियम् पुस्त्रियोः सौ ।२।१३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यम् 'अयमियमी' स्याताम् । अयं ना इयं स्त्री । त्यदामित्येव- अतीदं ना स्त्री वा ॥३८॥
दो मः स्यादौ ।२।११३९॥ त्यदां स्यादौ परे 'इदमो दो मः' स्यात् । इमी, परमेमौ, इमकाभ्याम् त्यदामित्येव- प्रियेदमी ॥३९॥
किमः कस्तसादौ च ।२।११४०॥ त्यदां स्यादौ तसादौ च प्रत्यये परे 'किमः कः' स्यात् । कः, साकोऽपि कः । कदा, कर्हि । तसादी चेति किम् ? किन्तराम् । त्यदामित्येव- प्रियकिमौ ॥४०॥
आदेरः ।२।११४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादी तसादौ च परे ‘अः' स्यात् । स्यः, त्यौ, द्वौ, ततः, तदा । त्यदामित्येव- अतितदौ ॥४१॥
तः सौ सः ।२।११४२॥ आवेस्त्यदां सौ परे 'तः सः' स्यात् । स्यः, स्या, सः, सा, एषा । त्यदामित्येव