________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कयनमन्वादेशः, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्वस्-नसादिनित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति, वयं विनीतास्तत्रो गुरवो मानयन्ति; धनवांस्त्वमयो त्या लोको मानयति, धनवानहमयो मा लोको मानयति ॥३१॥
सपूर्वात प्रथमान्ताद् वा ।२।११३२॥ विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे 'वस्-नसादिर्वा' स्यात् । यूयं विनीतास्तद् गुरवो वो मानयन्ति, तद् गुरवो युष्मान् मानयन्ति । वयं विनीतास्तद् गुरवो नो मानयन्ति, तद् गुरवोऽस्मान् मानयन्ति । युवां सुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीली तज्ज्ञानं नौ दीयते, तज्ज्ञानमावाभ्यां दीयते ॥३२॥
त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते ।२।१॥३३॥ त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे “एनद्' स्यात्, न तु वृत्यन्ते । उद्दिष्टमेतदध्ययनमयो एनदनुजानीत, एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरधीता अयो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलमयो एनयोर्महती कीर्तिः । त्यदामिति किम् ? संज्ञायामेतदं संगृहाण अयो एतदमध्यापय । अवृत्त्यन्त इति किम् ? अयो परमैतं पश्य ॥३३॥
इदमः ।२।१३४॥ त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे 'एनत्' स्यात्, अवृत्त्यन्ते । उद्दिटमिदमध्ययनमयो एनदनुजानीत । अनेन रात्रिरधीता अयो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलम् अयो एनयोर्महती कीर्तिः ॥३४॥
अद् व्याने २।११३५॥ त्यदादेरिदमो व्यजनादौ स्यादौ परेऽन्वादेशे 'अ' स्यात्, अवृत्त्यन्ते । इम