________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
नान्यत् ।२।१२७॥ युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्विशेषणे परे'ऽसदिव न' स्यात् । साधो सुविहित ! त्वा शरणं प्रपद्ये । साधो सुविहित ! मा रक्ष ॥२७॥
पादायोः ।२।१॥२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयोर्युष्मदस्मदो 'स्-नसादिर्न स्यात् ।
"वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता ।
स एव नाथो भगवानस्माकं पापनाशनः ॥१॥" पादाद्योरिति किम् ?
"पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जवः ॥२॥" ॥२८॥
चाऽह-ह-वैवयोगे ।२।११२९॥ एभिर्योगे पदात् परयोर्युष्मदस्मदो-'वस्-नसादिर्न' स्यात् । ज्ञानं युष्मांश्च रक्षतु, अस्मांश्च रक्षतु । एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानञ्च शीलञ्च ते स्वम् ॥२९॥
दृश्यर्थश्चिन्तायाम् ।२।१॥३०॥ दृशिना समानार्थश्चिन्तार्धातुभिर्योगे युष्मदस्मदो-स्-नसादिर्न' स्यात् । जनो युष्मान् सन्दृश्यागतः, जनोऽस्मान् सन्दृश्यागतः । जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते, जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्यः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥३०॥
नित्यमन्वादेशे ।२।१।३१॥