________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४१
पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह, यथासंख्यम् 'वाम्-नौ' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मो वां पातु, धर्मो युवां पातुः धर्मो नौ पातु, धर्म्म आवां पातु । एवं चतुर्थी षष्ठीभ्यामपि ॥२२॥
डे - ङसा ते मे 1२1१॥२३॥
डेडस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् 'ते - मे' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते; धम्र्मो मे दीयते, धर्मो मह्यं दीयते धर्मस्ते स्वम्, धर्मस्तव स्वम् धर्मो मे स्वम्, धर्मो मम स्वम् ||२३|| अमा त्वा-मा ।२।१।२४॥
अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् 'त्वा-मा' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्त्वा पातु, धर्मस्त्वां पातुः धर्म्मो मा पातु, धर्मो मां पातु ॥२४॥ असदिवाऽऽमन्त्र्यं पूर्वम् | २|१|२५||
आमन्त्र्यार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः, साधू ! युवां पातु धर्मः साधो ! त्वां पातु तपः । पूर्वमिति किम् ? मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ||२५||
जस्विशेष्यं वाऽऽमन्त्र्ये | २|१|२६ ॥
युष्मदस्मद्भ्यां पूर्व जसन्तमामन्त्र्यार्थं विशेष्यवाच्याऽऽमन्त्र्ये पदेऽर्थात् तद्विशेषणे परे ऽसदिव वा' स्यात् । जिनाः ! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः ! शरण्या वः शरणं प्रपद्ये । जिनाः ! शरण्या अस्मान् रक्षत, जिनाः ! शरण्या नो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यमिति किम् ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्या ! युष्मान् शरण्याः शरणं प्रपद्ये । अर्थात् तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये ॥२६॥