________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
युष्मदस्मद्भ्यां परयोरम् औ इत्येतयोर्म इति स्यात् । त्वाम्, माम् अतित्वाम्, अतिमाम्; युवाम्, आवाम् अतियुवाम्, अत्यावाम् ||१६|| शसो नः | २|१|१७॥
युष्मदस्मद्भ्यां परस्य 'शसो न' इति स्यात् । युष्मान्, अस्मान्; प्रियत्वान्, प्रियमान् ||१७||
४०
अभ्यम् भ्यसः | २|१|१८॥
युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यं स्यात् । युष्मभ्यम्, अस्मभ्यम्; अतियुवभ्यम्, अत्यावभ्यम् ||१८||
सेश्चाऽद् | २|१|१९||
युष्मदस्मद्भ्यां परस्य ङसेः पञ्चमीभ्यसश्च 'अद्' इति स्यात् । त्वद् मद् अतियुवद्, अत्यावद्; युष्मद्, अस्मद् अतित्वद्; अतिमद् ||१९||
आम आकम् | २|१|२०|
युष्मदस्मद्भ्यां परस्य 'आम आकम्' स्यात् । युष्माकम् अस्माकम् अतियुवाकम्, अत्यावाकम्; युष्मानस्मान् वाऽऽचक्षाणानाम् युष्माकम् अस्माकम् युषाकम्, असाकम् ||२०||
पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे | २|१|२१॥ बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् 'वस्नसौ वा स्याताम् तच्चेत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यं विधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेऽपि । धर्मो वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, धर्मोऽस्मान् रक्षतु । एवं चतुर्थी - षष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग्विभक्त्येति किम् ? तीर्थे यूयं यात । एकवाक्य इति किम् ? अतियुष्मान् पश्य, ओदनं पचत, युष्माकं भविष्यति ॥२१॥ द्वित्वे वाम्-नौ ।२।१।२२॥
"