________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३९
त्यावासु । मन्तस्येति किम् ? युवयोः आवयोरित्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव - युवयोः पुत्रो युष्मत्पुत्रः ||१०|
त्व - मौ प्रत्ययोत्तरपदे चैकस्मिन् | २|१|११||
स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यम् ' त्व-म' इत्येतौ स्याताम् । त्वाम्, माम्; अतित्वाम्, अतिमाम्; अतित्वासु, अतिमासुः त्वदीयः, मदीयः, त्वत्पुत्रः, मत्पुत्रः । प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद्, अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम्, अस्माकम् ।।११।।
त्वमहं सिना प्राक् चाऽकः | २|१|१२||
सिना सह युष्मदस्मदोर्यथासंख्यम् 'त्वम्-अहमी' स्याताम्, तौ चा ऽक्प्रसङ्गेऽकः प्रागेव । त्वम्, अहम्; अतित्वम्, अत्यहम् । प्राक्चाक इति किम् ? त्वकम्, अहकम् ॥१२॥
यूयं वयं जसा | २|१|१३॥
जसा सह युष्मदस्मदोर्यथासंख्यम् 'यूयम्-वयमी' स्याताम् । यूयम्, वयम्; प्रिययूयम्, प्रियवयम् । प्राक्वाक इत्येव- यूयकम्, वयकम् ॥१३॥ तुभ्यं मह्यं ङया | २|१|१४|
I
ङया सह युष्मदस्मदोर्यथासंख्यम् 'तुभ्यम् - मामौ' स्याताम् । तुभ्यम्, मह्यम्; प्रियतुभ्यम्, प्रियमह्यम् । प्राक्वाक इत्येव - तुभ्यकम्, माकम् ||१४||
तव मम इसा | २|१|१५|| ङसा सह युष्मदस्मदोर्यथासंख्यम् 'तव - ममी' स्याताम् । तव, मम प्रियतव, प्रियमम । प्राक्वाक इत्येव - तवक, ममक ||१५||
अमौ मः | २|१|१६॥