________________
३८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अपोऽभ्रे ।२।१।४॥ भादौ स्यादौ परे 'अपोऽद्' स्यात् । अद्भिः, स्वद्भ्याम् । भ इति किम् ? अप्सु ॥४॥
आ रायो व्यञ्जने ।२।११५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः' स्यात् । राः, रासु, अतिराभ्याम् कुलाभ्याम् । व्यञ्जन इति किम् ? रायः ॥५॥
युष्मदस्मदोः ।२।१६॥ व्यञ्जनादौ स्यादौ परे 'युष्मदस्मदोराः' स्यात् । त्वाम्, माम्; अतित्वाम्, अतिमाम्; युष्मासु, अस्मासु ॥६॥
टाइयोसि यः ।२।१७॥ टाङ्योस्सु परेषु 'युष्मदस्मदोर्यः' स्यात् । त्वया, मया; अतियुवया, अत्यावया; त्वयि, मयि; युवयोः, आवयोः । टाङ्योसीति किम् ? त्वत्, मत् ॥७॥
शेषे लुक् ।२।१८॥ यस्मिन्नायौ कृतौ ततोऽन्यः शेषः, तस्मिन् स्यादौ परे 'युष्मदस्मदोर्मुक् स्यात् । युमभ्यम्, अस्मभ्यम्, अतित्वत्, अतिमत् । शेष इति किम् ? त्वयि, मयि ||८||
मोर्वा ।२।१९॥ शेषे स्यादौ परे 'युष्मदस्मदोर्मोलुंग वा' स्यात् । युवाम् युष्मान् वा आवाम् अस्मान् वाऽऽचक्षाणेभ्यो (णिचि क्विपि च लुकि च)- युष्मभ्यम्, युषभ्यम्; अस्मभ्यम्, असभ्यम् ॥९॥
__ मन्तस्य युवाऽऽवौ द्वयोः ।२।१।१०॥ व्यर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यम् 'युव-आव' इत्येतौ स्याताम् । युवाम्, आवाम्; अतियुवाम्, अत्यावाम्; अतियुवासु, अ