________________
ऋभुक्षः ॥७९॥
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३५
वोशनसो नश्चामन्त्र्ये सौ |१|४|८०|| आमन्त्र्यवृत्तेरुशनसो 'न-लुकी' सौ परे वा स्याताम् । हे उशनन् !, हे उशन !, हे उशनः ! | आमन्त्र्य इति किम् ? उशना ||८०|| उतोऽनडुच्चतुरो वः |१।४।८१ ॥
आमन्त्र्यवृत्त्योरनडुच्चतुरोरुतः सौ परे 'वः' स्यात् । हे अनड्वन् ! | हे प्रियचत्वः ! । हे अतिचत्वः ! ||८१ ॥ वाः शेषे | १|४ |८२ ॥
आमन्त्र्यविहितात्सेरन्यो घुट् शेषस्तस्मिन्परे अनडुच्चतुरोरुतो 'वाः' स्यात् । अनड्वान्, अनड्वाहौ । प्रियचत्वाः प्रियचत्वारौ । शेष इति किम् ? हे अनड्वन् ! | हे प्रियचत्वः ! ॥ ८२ ॥
सख्युरितोऽशावैत् | १|४|८३ ॥
सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे 'ऐत्' स्यात् । सखायौ, सखायः सखायम् । इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि । शेष इत्येव - हे सखे ! ॥ ८३ ॥
ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डाः |१|४|२४||
ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य 'सेर्डाः' स्यात् । पिता, अतिपिता, कर्त्ता, उशना, पुरुदंशा, अनेहा, सखा ॥८४॥
नि दीर्घः | १|४|८५ ॥
शेषे घुटि परे यो नस्तस्मिन् परे स्वरस्य 'दीर्घः' स्यात् । राजा, राजानौ, राजानः, राजानम् । वनानि । कर्तृणि । शेष इत्येव - हे राजन् ! ॥८५॥
न्स्महतोः |१|४|८६॥