________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पुंसोः पुमन्स् | १|४|७३ ॥
पुंसोः 'पुमन्स्' घुटि स्यात् । पुमान्, पुमांसी, पुमांसः । प्रियपुमान्, प्रियपुमांसि ॥७३॥
३४
ओत औः | १|४|७४॥
,
ओतो घुटि परे 'औ' स्यात् । गीः गावौ द्यौः, द्यावी, प्रियद्यावी । ओत इति किम् ? चित्रगुः ॥७४ ||
आ अम् - शसोडता । १।४।७५ ॥
ओतोऽम् - शसोरता सह 'आ' स्यात् । गाम् । सुगाम् । गाः। द्याम् । अतिद्याम् । द्याः । सुधाः ॥ ७५ ॥
पथिन् - मथिनृभुक्षः सौ |१|४|७६ ॥
एषां नान्तानामन्तस्य सौ परे 'आः' स्यात् । पन्थाः, हे पन्थाः ! | मन्याः, हे मन्थाः ! । ऋभुक्षाः, हे ऋभुक्षाः ! । नान्तनिर्देशादिह न स्यात् पन्थानमैच्छत् पथीः ॥७६ ||
एः |१|४|७७ ॥
?
पथ्यादीनां नान्तानामितो घुटि परे 'आः' स्यात् । पन्याः पन्थानौ, पन्थानः, पन्थानम्; सुपन्थानि कुलानि । मन्याः । ऋभुक्षाः । नान्तनिर्देशाद् - एरभावाच्चेह न स्यात् - पथ्यौ, पथ्यः ॥७७॥
योन्थ |१|४|७८ ॥
पथिन् - मथिनोर्नान्तयोस्थस्य घुटि परे 'न्यू' स्यात् । तथैवोदाहृतम् ॥७८॥ इन् डीस्वरे लुक् | १|४|७९॥
पथ्यादीनां नान्तानां ड्यामघुट्स्वरादौ च स्यादौ परे 'इन् लुक्' स्यात् । सुपथी स्त्री कुले वा । पथः । सुमथी स्त्रीकुले वा । मथः । अनुभुक्षी सेना कुले वा ।