________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् 'नोऽन्तः' स्यात् । पयांसि, अतिजरांसि, काष्टतनि । स्वरादित्येव- गोमन्ति ॥
लोवा ।१।४।६७॥ र-लाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् 'नोन्तो वा' स्यात् । बहूर्जि, बहूर्जि । सुवल्ङ्गि, सुवल्गि । ल इति किम्? काष्टतक्षि । धुटामित्येव - सुफुल्लि ॥६७।।
घुटि ११४६८॥ निमित्तविशेषोपादानं विना, आपादपरिसमाप्तेर्यत्कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ॥६८॥
अचः ११४६९॥ अञ्चतेर्धातो(डन्तस्य धुटः प्राक् ‘नोन्तो' घुटि स्यात् । प्राङ्, अतिप्राङ्,प्राञ्चौ । प्राञ्चि कुलानि ॥६९।।
ऋदितः ।११४७०॥ ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक् स्वरात्परो 'नोन्तः' स्यात् । कुर्वन्, विद्वान्, गोमान् । घुटित्येव- गोमता ॥७॥
युजोऽसमासे ११४७१॥ "युजूपी योगे" इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक् घुटि 'नोन्तः' स्यात् । युङ्, युनी । युजि कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? “युजिंच समाधौ" युजमापना मुनयः ॥७१॥
अनडुहः सौ ११४७२॥ अनडुहो धुडन्तस्य धुटः प्राक् सौ परे ‘नोन्तः' स्यात् । अनड्वान्, प्रियानड्वान् ॥७२॥