________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सन्तस्य महतश्च स्वरस्य शेषे घुटि परे 'दीर्घः' स्यात् । श्रेयान्, श्रेयांसौ । महान्, महान्तौ ॥८६॥
इन्-हन्-पूषाऽर्यम्णः शिस्योः ।।४।८७॥ इनन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयो-'र्दीर्घः' स्यात् । दण्डीनि, नग्वीणि, दण्डी, स्रग्वी । भ्रूणहानि, भ्रूणहा । बहुपूषाणि, पूषा स्वर्यमाणि, अर्यमा । शिस्योरेवेति किम् ? दण्डिनी, वृत्रहणौ, पूषणौ, अर्यमणौ ॥८७॥
अपः ।११४८८॥ अपः स्वरस्य शेषे घुटि परे 'दीर्घः' स्यात् । आपः स्वापौ ॥८॥
नि वा ११४१८९॥ अपः स्वरस्य नागमे सति घुटि परे 'दी? वा' स्यात् । स्वाम्पि, स्वम्पि । बह्वाम्पि, बहम्पि ॥८९॥
अभ्वादेरत्वसः सौ ।१।४।९०॥ अत्वन्तस्याऽसन्तस्य च भ्वादिवर्जस्य शेषे सौ परे 'दीर्घः' स्यात् । भवान्, यवमान्, अप्सराः । गोमन्तं स्थूलशिरसं वेच्छन्- गोमान् स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥१०॥
क्रुशस्तुनस्तृच पुंसि ।१४।९१॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे 'तृच्' स्यात्, पुंसि । क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ॥९१॥
टादौ स्वरे वा ११४९२॥ टादी स्वरादौ परे कुशस्तुनस्तृज् वा स्यात्, पुंसि । क्रोष्ट्रा,क्रोष्टुना; क्रोष्ट्रोः, क्रोष्ट्वोः ॥१२॥
स्त्रियाम् ॥१।४।१३॥