________________
श्रीसिद्धहेमचनशब्दानुशासनम्
खि-ति-खी-तीय १४॥३६॥ खि-ति-खी-तीसम्बन्धिनो यात्परयोसिसोरुर् स्यात् । सख्युः, सख्युः । पत्युः, पत्युः। सखायं पतिं घेच्छतः सख्युः २, पत्युः २ । य इति किम् ? अतिसखेः, अधिपतेः ॥३६॥
तो डर १४॥३७॥ ऋतः परयोः सि-उसो-'ई' स्यात् । पितुः, पितुः ॥३७॥ तृ-स्वसृ-नत-नेष्ट-त्वष्ट-क्षतृ-होतृ-पोतृ-प्रशास्त्रो
घुवार १४॥३८॥ तृच्-तृनन्तस्य स्वस्रादीनां च ऋतो घुटि परे 'आर् स्यात् । करिम, कर्तारौर, कर्तारः । स्वसारम्, नप्तारम्, नेटारम्, त्वद्यारम्, क्षत्तारम्, होतारम्, पोतारम्, प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ॥३८॥
अझै च ॥१४॥३९॥ ऋतो घुटि च परे 'अर' स्यात् । नरि । नरम् ॥३९॥
मातुर्मातः पुत्रेऽहे सिनाऽऽमन्त्र्ये १४॥४०॥ आमन्त्र्ये पुत्रे वर्तमानस्य मातृशब्दस्य सिना सह 'मातः' स्यात्, अहेप्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मातः ! हे गार्गीमातृके वत्से ! । अर्ह इति किम् ? अरे गार्गीमातृक ! ॥४०॥
हस्वस्य गुणः ॥१४॥४१॥ आमन्त्र्यार्थवृत्तेहस्वान्तस्य सिना सह 'गुणः' स्यात् । हे पितः !, हे मुने! ॥४१॥
एदापः ॥१४॥४२॥ आमन्त्र्यार्यवृत्तेरावन्तस्य सिना सह एत्' स्यात् । हे माले !, हे बहुराजे ! ॥२॥
नित्यदिन-द्विस्वराऽम्बार्थस्य इस्वः ॥१४॥४३॥