________________
२८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये खलप्चे पुंसे स्त्रियै ।।२९।
वेयुवोऽस्त्रियाः ११४॥३०॥ इयुव्स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात्परेषां स्यादेर्डितां यथासंख्यम् ‘दै-दास्-दास् दामो वा' स्युः । श्रियै, श्रिये; श्रियाः, श्रियः२, श्रियाम्, श्रियि । अतिश्रियै, अतिश्रिये पुंसे स्त्रियै वा । ध्रुवै, ध्रुवे; ध्रुवाः, ध्रुवः, ध्रुवाः ध्रुवः; ध्रुवाम्, ध्रुवि । अतिध्रुवै अतिध्रुवे पुंसे स्त्रियै वा । इयुव इति किम् ? आध्यै । अस्त्रिया इति किम् ? स्त्रियै ॥३०॥
आमो नाम् वा ॥१४॥३१॥ इयुवोः स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य 'आमो नाम् वा' स्यात्, न तु स्त्रियाः । श्रीणाम्, श्रियाम् । भ्रूणाम्, ध्रुवाम् । अतिश्रीणाम्, अतिथियाम् ।अतिभ्रूणाम् अतिभ्रुवाम् नृणाम् स्त्रीणाम् वा । इयुव इत्येव-प्रधीनाम् ॥३१।।
हस्वाऽऽपश्च ।१।४।३२॥ हस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्याऽऽमो 'नाम्' स्यात् । देवानाम्, मालानाम्, स्त्रीणाम्, वधूनाम् ॥३२॥
संख्यानां र्णाम् ॥१४॥३३॥ र-ष-नान्तानां संख्यावाचिनामाऽऽमो ‘नाम्' स्यात् । चतुर्णाम्, षण्णाम्, पञ्चानाम्, अटानाम् ॥३३॥
नेत्रयः ॥१४॥३४॥ आमः सम्बन्धिनस्रेस्त्रयः स्यात् । त्रयाणाम्, परमत्रयाणाम् ॥३४॥
एदोभ्यां उसि-ङसो रः ॥१४॥३५॥ एदोद्भ्यां परयोः प्रत्येकं उसि-ङसो 'रः' स्यात् । मुनेः, मुनेः । धेनोः, घेनोः । गोः, गोः । द्योः, द्योः ॥३५॥