________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नित्यं दिद्-दै-दाम-दाम-दामादेशा येभ्यस्तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सूह 'हस्वः स्यात् । हे स्त्रि !, हे लक्ष्मि !, हे श्वश्रु!, हे वधु !, हे अम्ब !, हे अक्क ! । नित्यदिदिति किम् ? हे हूहूः! । द्विस्वरेति किम् ? हे अम्बाडे ! । आप इत्येव- हे मातः ! ॥४३॥
अदेतः स्यमोलक ११४॥४४॥ अदन्ताद् एदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च 'लुक्' स्यात् । हे देव !, हे उपकुम्भ ! हे अतिहे ! ॥४४॥
दीर्घड्या-व्यन्जनात सेः ११४१४५|| दीर्घड्यावन्ताभ्यां व्यञ्जनाच परस्य ‘से क्' स्यात् । नदी । माला । राजा । दीर्घति किम् ? निष्कौशाम्बिः, अतिखटः ॥४५॥
समानादमोऽतः ११४१४६॥ समानात् परस्याऽमोऽस्य 'लुक्' स्यात् । देवम्, मालाम्, मुनिम्, नदीम्, साधुम्, वधूम् ॥४६॥
दीर्घो नाम्यतिस-चतसृ-धः ।१।४।४७॥ तिस-चतसृ-प-रान्तवर्जस्य समानस्य नामि परे 'दीर्घः' स्यात् । वनानाम्, मुनीनाम्, साधूनाम, पितृणाम् । अतिसूचतसृष इति किम् ? तिसृणाम, चतसृणाम्, षण्णाम्, चतुर्णाम् ॥४७॥
नुर्वा ॥१४॥४८॥ नुः समानस्य नामि परे 'दीर्घो वा' स्यात् । नृणाम्, नृणाम् ॥४८॥
शसोऽता सच नः पुंसि ।।४।४९॥ शसोऽता सह पूर्वसमानस्य 'दीर्घः' स्यात्, तत्सन्नियोगे च पुंसि शसः सो नः । देवान्, मुनीन्, वातप्रमीन्, साधून, हूहून, पितन् । पुंसीति किम् ? शालाः ॥४९॥