________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२५
-
भवतु, किम् इत्यसंज्ञायां सर्वादिः ॥७॥
डेः स्मिन् ।१।४।८॥ सवदिरदन्तस्य ‘: स्मिन्' स्यात् । सर्वस्मिन् ॥८॥
जस इ. ११४९॥ सव्वदिरदन्तस्य 'जस इ.' स्यात् । सर्वे ॥९॥ नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा
१४॥१०॥ नेमादीनि नामानि, तयायौ प्रत्ययौ, तेषामदन्तानाम् 'जस इर्वा' स्यात् । नेमे, नेमाः । अर्द्ध, अर्धाः । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । त्रये, त्रयाः । अल्पे, अल्पाः । कतिपये, कतिपयाः ॥१०॥
द्वन्द्वे वा १४११॥ द्वन्द्वसमासस्थस्याऽदन्तस्य सवदिर्जस इर्वा' स्यात् । पूर्वोत्तरे, पूर्वोत्तराः ॥११॥
न सर्वादिः ।१।४।१२॥ द्वन्द्वे सर्वादिः ‘सर्वादिर्न' स्यात् । पूर्वापराय, पूर्वापरात्, पूर्वापरे । कतरकतमानाम्, कतरकतमकाः ॥१२॥
तृतीयान्तात पूर्वा-वरं योगे ।१।४।१३॥ तृतीयान्तात् परौ पूर्वाऽवरौ योगे-सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय-मासपूर्वाय । दिनेनाऽवराय-दिनावराय । दिनेनाऽवराः दिनाऽवराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन ॥१३॥
तीयं ङित्कार्ये वा ।१।४।१४॥ तीयान्तं नाम डे-सि-उस-डीनां कार्ये 'सर्वादिष्' स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय ॥१४॥