________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अवर्णस्याऽऽमः साम् | १|४|१५||
अवर्णान्तस्य सवदिरामः 'साम्' स्यात् । सर्वेषाम्, विश्वासाम् ॥ १५ ॥ नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा | १|४|१६ ॥
I
पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ||१६|| आपो ङितां यै-यास् - यास् - याम् |9|४|१७|
२६
आबन्तस्य ङिताम् - डे-ङसिङस्-डीनां यथासंख्यम् 'यै- यास् - यास्यामः ' स्युः । खट्वायै खट्टायाः, खट्वायाः, खट्टायाम् ॥१७॥
सवदिर्डस् पूर्वाः । १।४।१८॥
सर्वादिराबन्तस्य ङिताम् 'यै - यास् - यास् - यामस्ते डस्पूर्वाः स्युः । सर्वस्यै, सर्वस्याः, सर्वस्याः सर्वस्याम् ||१८||
"
टौस्येत् | १|४|१९ ॥
आवन्तस्य टीसोः परयोरेकारः स्यात् । बहुराजया, बहुराजयोः ||१९| औता |१|४|२०||
आवन्तस्य 'औता सहैकारः' स्यात् । माले स्तः पश्य वा ॥२०॥ इदुतोऽस्रीत् |१|४|२१॥
स्रन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् 'ईदूती' स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ॥२१॥
जस्येदोत् । १।४।२२ ॥
इदुदन्तयोर्जसि परे यथासंख्यम् 'एदोती' स्याताम् । मुनयः साधवः ॥ २२॥ ङित्यदिति |१|४|२३॥
अदिति ङिति स्यादौ परे, इदुदन्तयोर्यथासंख्यम् 'एदोती' स्याताम् । अति