________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
|१|४|१|
( चतुर्थः पादः ) अत आः स्यादौ जस्- भ्याम्-ये स्यादौ जसि भ्यामि ये च परेऽकारस्य 'आ' स्यात् । देवाः, आभ्याम्, सुखाय । स्वादाविति किम् ? बाणान् जस्यतीति क्विप् - बाणजः ॥१॥ मिस ऐस् |१|४|२||
आत्परस्य स्यादे-'र्भिस ऐस्' स्यात् । देवैः । ऐस्करणाद्-अतिजरसैः ॥२॥ इदमदसोऽक्येव | १|४|३ ॥
२४
"
इदमदसोरक्येव सति, आत्परस्य 'मिस ऐस्' स्यात् । इमकैः अमुकैः । अक्येवेति किम् ? एभिः अमिभिः ||३||
"
ए बहुभोसि | १|४४॥
बहुवर्थे स्यादी सादी भादी ओसि च परे 'अत एत् स्यात् । एषु एभि:, देवयोः ||४||
टा- डसोरिन - स्यौ |9|४|५॥
आत्परयोष्टा-ङसोर्यथासङ्ख्यम् 'इन-स्यौ' स्याताम् । तेन, यस्य ॥५॥ - इस्योर्याऽऽतौ 19 |४|६ ॥
आत्परस्य डेडसेश्च यथासंख्यम् 'य आच्च' स्याताम् । देवाय, देवात् ॥ ६॥ सर्वादिः स्मै - स्मातौ |१|४|७||
सर्वादिरदन्तस्य सम्बन्धिनोर्डेङस्योर्यथासंख्यम् 'स्मै - स्माती' स्याताम् । सर्वस्मै, सर्वस्मात् । सर्व, विश्व, उभ, उभयट्, अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत्, नेम, सम-सिमौ सर्वार्थी, पूर्व-परांऽवर-दक्षिणोत्तरा-ऽपरा-ऽधराणि व्यवस्थायाम्, स्वम् अज्ञाति-धनाख्यायाम्, अन्तरं बहिर्योगोपसंव्यानयोरपुर, त्यद्, तद्, यद्, अदस्, इदम् एतद् एक, द्वि, युष्मद्, अस्मद्,