________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२३ तति, वृश्चति । षेण - दोष्षु । टवर्गेण-पाक्षि ॥६१॥
न शात् ११३१६२॥ शात् परस्य तवर्गस्य 'चवर्गो न' स्यात् । अनाति, प्रश्नः ॥६२।।
पदान्ताट्टवर्गादनाम-नगरी-नवतेः ।१।३।६३॥ पदान्तस्थावर्गात् परस्य नाम्-नगरी-नवतिवर्जस्य तवर्गस्य सस्य च 'टवर्गषौ न' स्याताम् । षण्नयम्, षण्नयाः, षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः ॥३॥
षि तवर्गस्य ।१३।६४॥ पदान्तस्थस्य तवर्गस्य थे परे ‘टवर्गो न' स्यात् । तीर्थकृत् षोडशः शान्तिः ॥६४॥
लि लौ ।१३।६५॥ पदान्तस्थस्य तवर्गस्य ले परे 'लौ' स्याताम् । तल्लूनम्, भवाल्लुनाति ॥६५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्योपज्ञशब्दानुशासन
लघुवृत्ती प्रथमस्याध्यायस्य तृतीयपादः समाप्तः ॥१३॥ चक्रे श्रीमूलराजेन, नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां, न प्रवेशमदत्त यः ॥३॥
----xox------