________________
२२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पदान्तस्थस्य रस्य ख्यागि परे 'विसर्ग एव' स्यात् । कः ख्यातः । नमः ख्यात्रे ॥५४॥ शिट्यघोषात् । १।३।५५॥
अघोषात् परे शिटि परतः पदान्तस्थस्य रस्य 'विसर्ग एव' स्यात् । पुरुषः त्सरुकः, सर्पिः प्साति, वासः क्षौमम्, अद्भिः प्सातम् ॥५५ ॥
व्यत्यये लुग् वा | १|३|५६ ॥
शिटः परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य 'रस्य लुग् वा स्यात् । चक्षुश्च्योतति, चक्षुः श्च्योतति, चक्षुश्श्च्योतति ॥५६॥ अरोः सुपि रः |१|३|५७ ॥
रोरन्यस्य रस्य सुपि परे 'र एव' स्यात् । गीर्षु, धूर्षु । अरोरिति किम् ? पयस्सु ॥५७॥
वाऽहर्पत्यादयः 191३1५८ ॥
अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पतिः, अहः पतिः, गीर्पतिः, गीः पतिः प्रचेता राजन् ! प्रचेतो राजन् ! ॥५८॥ शिट्याद्यस्य द्वितीयो वा |१| ३|५९ ॥
"
प्रथमस्य शिटि परे 'द्वितीयो वा' स्यात् । ख्षीरम् क्षीरम् । अफ्सराः, अप्सराः ||५९||
तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च- टवर्गों |१|३|६०॥ तवर्गस्य श-चवर्गाभ्यां ष-टवर्गाभ्यां च योगे यथासंख्यम् 'चवर्ग- टवर्गी' स्याताम् । तच्शेते, भवाञ्शेते, तच्चारु, तज्जकारेण, पेटथ, पूष्णः, तट्टकारः, तण्णकारेण, ईट्टे ॥६०॥
सस्य श षौ |१|३|६१ ॥
सस्य श्चवर्ग-ष्टवर्गाभ्यां योगे यथासंख्यम् 'श-षी' स्याताम् । चवर्गेण - श्च्यो