________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१
स लाति । अनग्नञ्समास इति किम् ? एषकः कृती, सको याति, अनेषो याति, असो वाति ||४६||
व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा । १।३।४७॥
व्यञ्जनात् परस्य पंचमस्याऽन्तस्थायाश्च सरूपे वर्णे परे 'लुग् वा' स्यात् । क्रुञ्चो ड्डौ -कुड्डौ, क्रुड्ड्डौ । आदित्यो देवताऽस्य - आदित्यः, आदित्य्यः । सरूप इति किम् ? वर्ण्यते ॥ ४७ ॥
घुटो धुटि स्वे वा | १|३|४८ ॥
व्यञ्जनात्परस्य धुटो धुटि स्वे परे 'लुग् वा' स्यात् । शिण्टि, शिण्डि । स्व इति किम् ? तप्त, दर्ता ॥ ४८ ॥
तृतीयस्तृतीय- चतुर्थे ॥१३॥४९॥
तृतीये चतुर्थे च परे 'धुटस्तृतीयः' स्यात् । मज्जति, दोग्धा ||४९ || अघोषे प्रथमोऽशिटः |१|३|५० ॥
अघोषे परे शिड्रर्जस्य 'धुटः प्रथमः' स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ॥५०॥
विरामे वा । १।३।५१॥
विरामस्थस्याऽशिटो 'धुटः प्रथमो वा' स्यात् । वाक्, वाग् ॥५१॥ न सन्धिः |१|३|५२॥
उक्तो वक्ष्यमाणश्च 'सन्धिर्विरामे न स्यात् । दधि अत्र, तद् लुनाति ॥५२॥ रः पदान्ते विसर्गस्तयोः |१|३|५३॥
पदान्तस्थस्य रस्य तयोर्विरामाऽघोषयोर्विसर्गः' स्यात् । वृक्षः, स्वः, कः कृती । पदान्त इति किम् ? इर्ते ॥५३॥
ख्यागि |१|३|५४ ॥