________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अपदान्तस्थानां म- नानां, धुटि वर्गे परे 'निमित्तस्यैवान्त्यो' ऽनु स्यात् । गन्ता, शङ्किता, कम्पिता । धुडितिकिम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति ॥ ३९ ॥
२०
शिड्ढे ऽनुस्वारः । १।३।४० ॥
अपदान्तस्थानां म्नां शिटि हे च परे ऽनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् ||४०||
रो रे लुग् दीर्घश्चाऽदिदुतः | १|३|४१ ||
रस्य रे परेऽनु 'लुक्' स्यात्, 'अ- इ - ऊनाञ्च दीर्घः' । पुना रात्रिः, अग्नी रथेन, पटू राजा । अनु इत्येव - अहोरूपम् ॥ ४१ ॥ ढस्तडूढे |१|३|४२॥
तन्निमित्ते ढे परे ढस्याऽनु 'लुक' स्यात्, दीर्घश्चादिदुतः । माढिः लीढम् गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते ॥४२॥
सहि- वहेरोच्चाऽवर्णस्य |१ |३|४३ ॥
सहि-वह्योस्य तड्ढे परेऽनु' लुक्' स्यात्, ओच्चाऽवर्णस्य । सोढा, वोढा, उदवोढाम् ||४३||
उदः स्था-स्तम्भः सः | १|३|४४ ॥
उदः परयोः स्था-स्तम्भोः सस्य 'लुक्' स्यात् । उत्थाता, उत्तम्भिता ॥४४॥ तदः सेः स्वरे पादार्था |१|३|४५ ||
तदः परस्यः सेः स्वरे परे 'लुक् स्यात् सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । पादार्था इति किम् ? स एष भरतो राजा ॥ ४५ ॥ एतदश्च व्यञ्जनेऽनग् - नञ्समासे |१| ३ | ४६ ॥
एतदस्तदश्च परस्य सेर्व्यञ्जने परे 'लुक्' स्यात्, अकि नञ्समासे न । एष दत्ते