________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९
परेऽनु 'द्वे रूपे वा' स्याताम् । त्वक्क्, त्वक् । दद्ध्यत्र, दध्यत्र । गो३त्त्रात, गोइत्रात । अर्हस्वरस्येत्येव- वर्या, वह्यम्, तितउ ॥३२॥
अञ्वर्गस्यान्तस्थातः ।१३।३३॥ अन्तस्थातः परस्य वर्जवर्गस्याऽनु 'वे रूपे वा' स्याताम् । उल्क्का , उल्का । अजिति किम् ? हल्ली ॥३३॥
ततोऽस्याः ।१।३।३४॥ ततो-ऽवर्गात् परस्या अस्या- अन्तस्थाया 'वै रूपे वा' स्याताम् । दध्य्यत्र, दध्यत्र दद्ध्य्यत्र ॥३४॥
शिटः प्रथम-द्वितीयस्य 1१।३।३५॥ शिटः परयोः प्रथम-द्वितीययो 'द्वै रूपे वा' स्याताम् । त्वं क्करोषि, त्वं करोषि । त्वं क्खनसि, त्वं खनसि ॥३५॥
ततः शिटः ।११३॥३६॥ ततः- प्रथम-द्वितीयाभ्यां परस्य शिटो 'द्वे रूपे वा' स्याताम् । तच्श्शेते, तशेते ॥३६॥ नच्छत
न रात् स्वरे ।११३॥३७॥ रात् परस्य शिटः स्वरे परे 'द्वे रूपे न स्याताम् । दर्शनम् ॥३७॥
पुत्रस्याऽऽदिन-पुत्रादिन्याक्रोशे ॥१॥३॥३८॥ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे !, पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्रादिनी शिशुमारी, पुत्रादिनीति वा । पुत्रपुत्रादिनी नागी, पुत्रपुत्रादिनीति वा ॥३८॥
म्नां धुड्वर्गेऽन्त्योऽपदान्ते ।।३।३९॥