________________
१८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
त्त्वनुञि वा । पटविह, पटविह । असाविन्दुः २, तहि २, तस्मादिम् २ ||२५| रोर्यः । १।३।२६ ॥
अवर्ण-भो भगो- अघोभ्यः परस्य पदान्तस्थस्य रोः स्वरे परे 'यः' स्यात् । कयास्ते, देवायासते, भोयत्र, भगोयत्र, अघोयत्र ॥ २६ ॥
हस्वान्ड - ण-नो द्वे |१|३|२७||
-हस्वात्परेषां पदान्तस्थानां ङ ण-नानां स्वरे परे 'द्वे रूपे' स्याताम् । क्रुङ्ङास्ते, सुगणिह, कृषन्नास्ते ||२७||
अनाङ् माङो दीर्घाद् वा च्छः |१|३|२८||
आङ् माङ्वर्जदीर्घात् पदान्तस्थात् परस्य 'छस्य द्वे रूपे वा' स्याताम् । कन्याच्छत्रम्, कन्याछत्रम् । अनामाङिति किम् ? आच्छाया, मा च्छिदत् ॥२८॥ प्लुताद् वा । १।३।२९॥
पदान्तस्थाद् दीर्घात् प्लुतात् परस्य 'छस्य द्वे रूपे वा' स्याताम् । आगच्छ भो इन्द्रभूते३ च्छत्रमानय, पक्षे छत्रमानय ॥ २९॥
स्वरेभ्यः | १|३|३०॥
स्वरात् परस्य 'छस्य द्वे रूपे' स्याताम् । इच्छति, गच्छति ॥३०॥ हद - - स्वरस्याऽनु नवा 1१।३।३१॥
स्वरात् पराभ्यां रहाभ्यां परस्य र-ह-स्वरवर्जस्य वर्णस्य 'द्वे रूपे वा' स्याताम्, अनु - कार्यान्तरात्पश्चात् । अर्कः, अर्कः । ब्रम्म, ब्रह्म । अर्ह - स्वर - स्येति किम् ? पद्महदः, अर्हः करः । स्वरेभ्य इत्येव - अश्रूयते । अन्विति किम् ? प्रोणुनाव ॥३१॥
अदीर्घ विरामैकव्यञ्जने | १|३|३२||
अदीर्घात् स्वरात् परस्य र-ह-स्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च