________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७
नः शि ञ्च् ।१।३।१९॥ पदान्तस्थस्य नस्य शे परे ‘ञ्च् वा' स्यात्, अश्वः । भवाञ्छूरः, भवाञ्च्शूरः, भवाञ्शूरः । अश्व इत्येव-भवाश्च्योतति ।।१९।।
अतोऽति रोरुः ॥१३॥२०॥ आत्परस्य पदान्तस्थस्य रोरति परे 'उर्नित्यं' स्यात् । कोऽर्थः ॥२०॥
घोषवति ।१॥३॥२१॥ आत्परस्य पदान्तस्थस्य रो?षवति परे 'उः' स्यात् । धर्मो जेता ॥२१॥
अवर्ण-भो-भगो-ऽघोलुंगसन्धिः ।१।३।२२॥ अवर्णाद् भो-भगो-अघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे 'लुक्' स्यात्, स च न सन्धिहेतुः । देवा यान्ति, भो यासि, भगो हस, अघो वद ॥२२॥
व्योः ।१।३॥२३॥ अवर्णात्परयोः पदान्तस्थयोर्वययो?षवति परे ‘लुक् स्यात्, स चाऽसन्धिः । वृक्षवृश्चम् अव्ययं चाऽऽचक्षाणो वृक्षव, अव्यय वृक्ष याति, अव्य याति ॥२३॥
स्वरे वा ॥१३॥२४॥ अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे 'लुग वा' स्यात्, स चाऽसन्धिः । पट इह, पटविह । वृक्षा इह, वृक्षाविह । त आहुः, तयाहुः । तस्मा इदम्, तस्मायिदम् । भो अत्र, भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्र ॥२४॥
अस्पष्टाववर्णात्त्वनुञि वा १३॥२५॥ अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोर्वययोः, अस्पष्टौ - 'ईषत्स्पृष्टतरौ वयौ' स्वरे परे स्याताम्, अवर्णात्तु परयोोरुश्वर्जे स्वरे'ऽस्पष्टौ वा' स्याताम् । पटवू, असावं, का, देवायँ भोपॅत्र, भगोपॅत्र, अघोपॅत्र । अवर्णा -