________________
२४८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अघञ्क्यबलच्यजेर्वी |४|४|२॥
अघञादावशिति विषये 'अजेर्वी' स्यात् । प्रवेयम् । अघञ्क्यबलचीति किम् ? समाजः, समज्या, उदजः, अजः पशुः ॥२॥
त्रने वा | ४|४|३|
'त्रनयोर्विषयभूतयोरजेवीं वा स्यात् । प्रवेता, प्राजिता; प्रवयणः, प्राजनो दण्डः ||३||
C
चक्षो वाचि कुशांग् ख्यांग् |४|४|४|
चक्षो वागर्थस्याऽशिति विषये 'कुशांग् ख्यांगी' स्याताम् । आवशास्यति, आक्शास्यते; आख्यास्यति, आख्यास्यते; आक्शेयम्, आख्येयम् । वाचीति किम् ? बोधे विचक्षणः || ४ ||
नवा परोक्षायाम् ||४|४|५ ॥
चक्षो वाचि 'क्शांग् - ख्यांगौ परोक्षायां वा स्याताम् । आचक्शी, आचख्यौ, आचचक्षे ||५||
भृज्जो भर्ज |४|४|६||
भृज्जतेरशिति 'भर्ज् वा' स्यात् । भर्थ, भ्रष्टा ॥६॥
प्राद् दागस्त आरम्भे ते |४|४|७||
आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे 'त्तो वा' स्यात् । प्रत्तः, प्रदत्तः । प्रादिति किम् ? परीत्तम् ॥ ७॥
नि-वि-स्वन्ववात् |४|४|८ ॥
एभ्यः परस्य दागः क्ते 'त्तो वा' स्यात् । नीत्तम्, निदत्तम्; वीत्तम्, विदत्तम्; सूत्तम्, सुदत्तम् अनूत्तम्, अनुदत्तम् अवत्तम् अवदत्तम् ॥८॥ स्वरादुपसर्गाद् दस्ति कित्यधः | ४|४|१||