________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अनव्ययस्येति किम् ? दिवाभूता रात्रिः ||१११॥
क्यनि | ४|३|११२॥
अवर्णान्तस्य क्यनि 'ई' स्यात् । पुत्रीयति । मालीयति ॥ ११२ ॥ क्षुत्तृड्- गर्भेऽशनायोदन्य - धनायम् | ४ | ३ |११३॥
एष्वर्थेषु 'यथासंख्यमशनायादयः क्यन्नन्ता निपात्यन्ते' । अशनायति, उदन्यति, धनायति । क्षुदादाविति कम् ? अशनीयति, उदकीयति, धनीयति दातुम् ||११३||
२४७
वृषाऽश्वान्मैथुने स्सोऽन्तः |४|३|११४॥
आभ्यां मैथुनार्थाभ्यां क्यनि 'स्सोऽन्तः' स्यात् । वृषस्यति गौः, अश्वस्यति वडवा । मैथुन इति किम् ? वृषीयति, अश्वीयति ब्राह्मणी ||११४ || अस् च लौल्ये | ४|३|११५॥
भोगेच्छातिरेको लौल्यम्, तत्र गम्ये क्यनि परे 'नाम्नः स्सोऽस् चान्तः ' स्यात् । दधिस्यति, दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ॥
इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्ती चतुर्यस्याध्यायस्य तृतीयः पादः समाप्तः || ४|३ ॥ कर्णं च सिन्धुराजं च निर्जित्य युधि दुर्जयम् । श्रीभीमेनाधुना चक्रे, महाभारतमन्यथा ||१५||
[ चतुर्थः पादः ]
अस्ति ब्रुवोर्भू- वचावशिति | ४|४|१ |
अस्ति - ब्रुवोर्यथासंख्यम् 'भू-वचौ स्याताम् अशिति विषये । भव्यम्, अवोचत् । अशितीति किम् ? स्यात्, ब्रूते ॥१॥