________________
२४६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
'शीङः शित्येः' स्यात् । शेते ॥१०४॥
क्किति यि शय् ।४।३।१०५॥ शीङः क्लिति यादौ 'शय्' स्यात् । शय्यते, शाशय्यते । कितीति किम् ? शेयम् ॥१०५॥
उपसर्गादूहो इस्वः ।।।३।१०६॥ उपसर्गात् परस्योहतेरुतः क्लिति यादौ परे 'इस्वः' स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव- समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ ऊह्यते ओह्यते, समोह्यते ॥१०६॥
आशिषीणः ।४।३।१०७॥ उपसर्गात् परस्येण ईतः विडति यादावाशिषि 'इस्वः' स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् ? आ ईयात्-एयात्, समेयात् ॥१०७॥
दीर्घश्चियङ्-यक्-क्येषु च ।४।३।१०८॥ एषु यादावाशिषि च दीर्घः' स्यात् । शुचीकरोति; तोष्ट्रयते; मन्तूयति; दधीयति, भृशायते, लोहितायते, स्तूयते; ईयात् ॥१०८॥
ऋतो रीः ४३.१०९॥ व्यादौ परे ऋदन्तस्य ऋतः स्थाने 'रीः' स्यात् । पित्रीस्यात्, चेक्रीयते, मात्रीयते, पित्रीयते । ऋत इति किम् ? चेकीर्यते ॥१०९॥
रिः श-क्या-ऽऽशीर्ये ।४।३।११०॥ ऋदन्तस्य धातोः ऋतः शे क्ये आशीर्ये च परे 'रिः' स्यात् । व्याप्रियते, क्रियते, ह्रियात् ॥११०॥
ईश्च्वाववर्णस्या-ऽनव्ययस्य ।४।३।१११॥ अनव्ययस्याऽवर्णान्तस्य ध्वी 'ई:' स्यात् । शुक्लीस्यात, मालीस्यात् ।