________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२४५
गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६॥ एषाम् 'क्डित्याशिष्येः' स्यात् । गेयात, पेयात्, स्थयात्, अवसेयात्, देयात्, धेयात्, मेयात्, हेयात् ॥१६॥
ईर्व्यञ्जनेऽयपि ।४।३।९७॥ गादेर्यवर्जे क्डित्यशिति व्यञ्जनादी 'ई.' स्यात् । गीयते, जेगीयते, पीयते, स्थीयते, अवसीयते, दीयते, धीयते, मीयते, हीनः । व्यञ्जन इति किम् ? तस्थुः । अयपीति किम् ? प्रगाय ॥९७॥
घ्रा-मोर्यडि ४३१९८॥ घ्रा-मोङि 'ई:' स्यात् । जेनीयते, देध्मीयते ॥९८॥
हनो नीर्वघे ४३१९९॥ हन्तेर्वधार्थस्य यडि 'नीः' स्यात् । जेन्नीयते । वध इति किम् ? गतीजान्यते ॥१९॥
ञ्णिति घात् ।४।३।१००॥ जिति णिति च परे 'हन्तेर्यात्' स्यात् । घातः, घातयति ॥१०॥
जि-णवि घन ।४।३।१०१॥ औ णवि च परे 'हन्तेर्घन्' स्यात् । अघानि, जघान ||१०१॥
नशेर्नेश् वाऽडि ।४।३।१०२॥ नशेरडि 'नेश् वा' स्यात् । अनेशत्, अनशत् ।।१०२।।
श्वयत्यसू-वच-पतः श्वा-ऽऽस्य-वोच-पप्तम् ।४।३।१०३॥ एषामङि 'यथासङ्ख्यं श्वादयः' स्युः । अश्वत्, आस्थत्, अवोचत्, अपप्तत् ॥१०३॥
शीङ ए: शिति ।४।३१०४॥