________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
मेङो वा मित् | ४ | ३ |८८॥ 'मेङो यपि मिद्वा' स्यात् । अपमित्य, अपमाय ॥८८॥ क्षेः क्षीः ४।३।८९ ॥
२४४
'क्षेर्यपि क्षी' स्यात् । प्रक्षीय ॥ ८९ ॥
क्षय्य - जय्यौ शक्तौ |४|३|९०॥
'क्षि- ज्योरन्तस्य शक्ती गम्यायां ये प्रत्ययेऽय् निपात्यते । क्षय्यो व्याधिः, जय्यः शत्रुः । शक्ताविति किम् ? क्षेयं पापम्, जेयं मनः ॥९०॥ क्रय्यः क्रयार्थे |४| ३ |९१ ॥
'क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते, क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ॥ ९१|| सस्तः सि | ४ | ३ |९२॥
धातोः सन्तस्याऽशिति सादी प्रत्यये विषयभूते 'तः' स्यात् । वत्स्यति । स इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट ॥ ९२ ॥ दीपू दीङः क्ङिति स्वरे | ४ | ३ |९३ ॥
दीङ: क्ङिति अशिति स्वरे 'दीय्' स्यात् । उपदिदीयाते । क्ङितीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ॥९३॥
इत्-पुसि चाऽऽतो लुक् । ४।३ ।९४ ॥
क्ङित्यशिति स्वरे, इटि, एति, पुसि च परे 'आदन्तस्य धातोर्लुक् स्यात् । पपुः, अदधत्, पपिथ, व्यतिरे, अदुः ॥९४॥
संयोगाऽऽदेर्वाऽऽ शिष्येः | ४ | ३ |९५ ॥
धातोः संयोगादेरादन्तस्य क्ङित्याशिषि 'एव' स्यात् । ग्लेयात्, ग्लायात् । संयोगादेरिति किम् ? यायात् । क्ङितीत्येव - ग्लासीष्ट ॥ ९५ ॥